|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.115. अध्यायः 115
Mahabharata - Udyoga Parva - Chapter Topics
व्ययितवित्तेन ययातिना धनप्रतिनिधितया माधवीनामकस्वकन्यकासमर्पणम् ॥ 1 ॥ गरुडेन समधिगततुरगाधिगमोपायं गालवमापृच्छ्य स्वगृहगमनम् ॥ 2 ॥ गालवेन सह कन्यया हृर्यश्वनामकनृपसमीपमुपेत्य शुल्कार्पणेन कन्या कलत्रीकरणकथनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-115-0(35727)
नारद उवाच। 5-115-0x(3725)
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥ 5-115-1(35728)
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः ।
ययातिः सर्वकाशीश इदं वचनमब्रवीत् ॥ 5-115-2(35729)
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् ।
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥ 5-115-3(35730)
अतीत्य च नृपानन्यानादित्यकुलसंभवान् ।
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च ॥ 5-115-4(35731)
अद्य मे सफलं जन्म तारितं चाद्य मे कलम् ।
अद्यायं तारितो देशो मम तार्क्ष्य त्वयाऽनघ ॥ 5-115-5(35732)
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा ।
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे ॥ 5-115-6(35733)
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग।
न चाशामस्य विपर्षेर्वितथीकर्तुमुत्सहे ॥ 5-115-7(35734)
पुत्रीं दास्यामि यत्कार्यमियं संपादयिष्यति।
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥ 5-115-8(35735)
नातः परं वैनतेय किंचित्पापिष्ठमुच्यते ।
प्रथाशानाशनं लोके देहि नास्तीति वा वचः ॥ 5-115-9(35736)
हताशो ह्यकृतार्थः सन्हतः संभावितो नरः ।
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम् ॥ 5-115-10(35737)
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम।
`माधवी नाम तार्क्ष्येयं सर्वधर्मप्रदायिनी ॥' 5-115-11(35738)
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी।
सदा देवमनुष्यणामसुराणां च गालव ।
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥ 5-115-12(35739)
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रवम्।
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥ 5-115-13(35740)
स भवाप्रतिगृह्णातु ममैतां माधवीं सुताम्।
अहं दौहित्रवान्त्स्यां वै वर एष मम प्रभो ॥ 5-115-15a` स तस्य वचनं श्रुत्वा ब्राह्मणः शंसितव्रतः ।'
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा।
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥ 5-115-14(35741)
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः।
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥ 5-115-16(35742)
गते पतगराजे तु गालवः सह कन्यया।
चिन्तयानः क्षमंदाने राजानं शुल्कतोऽगमत् ॥ 5-115-17(35743)
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्।
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥ 5-115-18(35744)
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥ 5-115-19(35745)
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् ।
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥ 5-115-20(35746)
इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् ।
शुल्कं ते कीर्तियिष्यामि तच्छ्रुत्वा संप्रधार्यताम् ॥ ॥ 5-115-21(35747)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यनपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|